|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.73. अध्यायः 073
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति स्त्रीस्वभावप्रतिपादकनारदपञ्चचूडासंवादानुवादः॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम।
स्त्रियो हि मूलं दोषाणां लघुचित्ता हि ताः स्मृताः? 13-73-1(84356)
भीष्म उवाच। 13-73-2x(7014)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
नारदस्य च संवादं पुंश्चल्या पञ्चचूडाया॥ 13-73-2(84357)
लोकाननुचरन्सर्वान्देवर्षिर्नारदः पुरा।
ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम्॥ 13-73-3(84358)
तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्चाप्सरसं मुनिः।
संशयो हृदि कश्चिन्मे ब्रूहि तन्मे सुमध्यमे॥ 13-73-4(84359)
एवमुक्ताऽथ सा विप्रं प्रत्युवाचाथ नारदम्।
विषये सति वक्ष्यामि समर्थां मन्यसे च माम्॥ 13-73-5(84360)
नारद उवाच। 13-73-6x(7015)
न त्वामविषये भद्रे नियोक्ष्यामि कथञ्चन।
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने॥ 13-73-6(84361)
एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा।
प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः॥ 13-73-7(84362)
विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः।
न मामर्हसि देवर्षे नियोक्तुं कार्य ईदृशे॥ 13-73-8(84363)
तामुवाच स देवर्षिः सत्यं वद सुमध्यमे।
मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते॥ 13-73-9(84364)
इत्युक्ता सा कृतमतिरभवच्चारुहासिनी।
स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं सम्प्रचक्रमे॥ 13-73-10(84365)
कुलीना रूपवत्यश्च नाथवत्यश्च योषितः।
मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद 13-73-11(84366)
न स्त्रीभ्यः किञ्चिदन्यद्वै पापीयस्तरमस्ति वै।
स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह॥ 13-73-12(84367)
समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान्।
पतीनन्तरमासाद्य नालं नार्यः परीक्षितुम्॥ 13-73-13(84368)
असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो।
पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे॥ 13-73-14(84369)
स्त्रियं हि यः प्रार्थयते सन्निकर्षं च गच्छति।
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः॥ 13-73-15(84370)
अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च।
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु॥ 13-73-16(84371)
नासां कश्चिदगम्योस्ति नासां वयसि निश्चयः॥
विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते॥ 13-73-17(84372)
न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथञ्चन।
न ज्ञातिकुलसम्बन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु॥ 13-73-18(84373)
यौवने वर्तमानानां मृष्टाभरणवाससाम्।
नारीणां खैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः॥ 13-73-19(84374)
याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः।
अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामनैः॥ 13-73-20(84375)
पङ्गुष्वथ च देवर्षे ये चान्ये कुत्सिता नराः।
स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने॥ 13-73-21(84376)
यदि पुंसां गतिर्ब्रह्मन्कथंचिन्नोपपद्यते।
अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु॥ 13-73-22(84377)
`दुष्टाचाराः पापरता असत्या मायया वृताः।
अदृष्टबुद्धिबहुलाः प्रायेणेत्यवगम्यताम्॥ 13-73-23(84378)
अलाभात्पुरुषाणां हि भयात्परिजनस्य च।
वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः॥ 13-73-24(84379)
चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा।
प्राज्ञस्य पुरुषस्येह यथाभावास्तथा स्त्रियः॥ 13-73-25(84380)
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः॥ 13-73-26(84381)
इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम्।
दृष्ट्वैव पुरुषं ह्यन्यं योनिः प्रक्लिद्यते स्त्रियाः॥ 13-73-27(84382)
कामानामपि दातारं कर्तारं मानसान्त्वयोः।
रक्षितारं न मृष्यन्ति स्वभर्तारमसत्स्त्रियः॥ 13-73-28(84383)
न कामभोगान्विपुलान्नालङ्कारार्थसञ्चयान्।
तथैव बहुमन्वन्ते यथा रत्यामनुग्रहम्॥ 13-73-29(84384)
अन्तकः शमनो मृत्युः पातालं बडबामुखम्।
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः॥ 13-73-30(84385)
यतश्च भूतानि महान्ति पञ्च
यतश्च लोका विहिता विधात्रा।
यतः पुमांसः प्रमदाश्च निर्मिता-
स्ततश्च दोषाः प्रमदासु नारद॥ ॥ 13-73-31(84386)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिसप्ततितमोऽध्यायः॥ 73 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-73-1 लघुचित्ताः वायुवत् चलचित्ताः॥ 7-73-3 ब्राह्मीं ब्रह्मलोकस्थाम्॥ 7-73-5 विषये वक्तुं योग्यत्वे॥ 7-73-8 नियोक्तुं प्रश्न ईदृशे इति ट.थ.ध.पाठः॥ 7-73-10 कृतमतिः वक्ष्यामीति कृतनिश्चयाऽभवत्॥ 7-73-22 गतिः प्राप्तिः। अन्योन्यं कृत्रिमलिङ्गधारिण्यो भूत्वा मैथुनार्थं प्रवर्तन्ते। एतच्च लोकप्रसिद्धम्। भर्तृषु दूरस्थेषु इति शेषः। नहि तिष्ठन्ति धैर्ये इति शेषः॥ 7-73-24 भयात्परिभवस्य चेति थ.ध. पाठः॥ 7-73-26 काष्ठानां काष्ठैः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|